सामग्री पर जाएँ

सिन्धुलिपिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
छापने योग्य संस्करण अब समर्थित नहीं है और इसे रेंडर करने में त्रुटियाँ आ सकती हैं। कृपया अपने ब्राउज़र के बुकमार्क्स अपडेट करें और ब्राउज़र में छापने के डिफ़ॉल्ट विकल्पों का इस्तेमाल करें।

कालः

सिन्धुलिपिः
सिन्धुलिपिः

सिन्धुसभ्यतायाः कालः मिश्रदेशस्य प्राचीनसभ्यतावत् अनिश्चितः अस्ति । मिश्रदेशस्य सुमेरप्रदेशीयस्य वा सभ्यतायाः कालनिर्णये तत्र प्राप्ताः लेखनसामग्राद्याः बहुसहायकाः अभवन् । इदनीमवधिः सिन्धुलिपेः आविष्कारः न अभूत् । प्रसिद्ध'मेसोपटेमिया'सभ्यतायाः खननसमये तत्र सिन्धुप्रदेशस्य मुद्राः अलभन् । अर्थ्यात् सिन्धुजनानां वाणिज्यं क्रैस्तपूर्वं २६००-२००० शताब्द्यां मेसोपटेमियापर्यन्तं विस्तृतमासीत् । तस्मात् बुधैः अनुमीयते यत् सिन्धुलिपेः कालः ३५००-३००० क्रैस्तपूर्वमस्ति ।

वैशिष्ट्यम्

सिन्धुप्रदेशतः प्राप्तेषु निदर्शनेषु एकत्र २६ अधिकसांकेतिकाक्षराणि च लब्धानि । अस्याः लिपेः आविष्कारनिमित्तं बहुशोधकार्याणि अभवन् । परन्तु विद्वत्सु लिपेः आविष्करणविषये मतैक्यताऽभावः एव दृश्यते । १८७३ तमे वर्षे अलेक्जन्डर कानिंहाम् प्रथमवारं सिन्धुलिप्या उत्कलितमुद्रां प्रकाशितवान् । तदनन्तरं प्रायः ४००० सांकेतिकचिह्नसमन्वितानि वस्तूनि शोधखननात् प्राप्तानि । सिन्धुलिपेः लेखनगतिः वामतः, दक्षिणतः तथा उभयतः (boustrophedonic style) आसीत् । सिन्धुलिपेः प्रायः ४००-६०० मौलिकसांकेतिकचिह्नानि सन्ति (Wells 1999)। अनेके लिपिविशेषज्ञाः मन्यन्ते यत्- लिपेः स्वरूपम् संश्लेषात्मकभाषां सूचयति इति ।

सम्बद्धाः लेखाः

"https://sa.wikipedia.org/w/index.php?title=सिन्धुलिपिः&oldid=409831" इत्यस्माद् प्रतिप्राप्तम्