ऋग्वेदः सूक्तं १०.१६६
← सूक्तं १०.१६५ | ऋग्वेदः - मण्डल १० सूक्तं १०.१६६ ऋषभो वैराजः, ऋषभः शाक्वरो भीमसेनो वा। |
सूक्तं १०.१६७ → |
दे. सपत्नघ्नम् । अनुष्टुप्, ५ महापङ्क्तिः |
![](http://178.128.105.246/host-http-upload.wikimedia.org/wikipedia/commons/thumb/1/17/Queen%27s_Lyre_Ur_Royal_Cemetery.jpg/220px-Queen%27s_Lyre_Ur_Royal_Cemetery.jpg)
ऋषभं मा समानानां सपत्नानां विषासहिम् ।
हन्तारं शत्रूणां कृधि विराजं गोपतिं गवाम् ॥१॥
अहमस्मि सपत्नहेन्द्र इवारिष्टो अक्षतः ।
अधः सपत्ना मे पदोरिमे सर्वे अभिष्ठिताः ॥२॥
अत्रैव वोऽपि नह्याम्युभे आर्त्नी इव ज्यया ।
वाचस्पते नि षेधेमान्यथा मदधरं वदान् ॥३॥
अभिभूरहमागमं विश्वकर्मेण धाम्ना ।
आ वश्चित्तमा वो व्रतमा वोऽहं समितिं ददे ॥४॥
योगक्षेमं व आदायाहं भूयासमुत्तम आ वो मूर्धानमक्रमीम् ।
अधस्पदान्म उद्वदत मण्डूका इवोदकान्मण्डूका उदकादिव ॥५॥
सायणभाष्यम्
‘ ऋषभम् ' इति पञ्चर्चं पञ्चदशं सूक्तं वैराजस्य शाक्वरस्य वर्षभाख्यस्यार्षं पञ्चमी षडष्टका महापङ्क्तिः । सपत्ननाशनरूपोऽर्थो देवता । तथा चानुक्रान्तम् ---- ‘ ऋषभमऋषभो वैराजः शाक्वरो वा सपत्नघ्नमानुष्टुभं महापङ्क्त्यन्तम् ' इति । प्रयाणसमये.......जपेत् । सूत्रितं च -- ऋषभं मा समानानामित्यभिक्रामन् ' ( आश्व. गृ. २. ६. १३) इति ॥
ऋ॒ष॒भं मा॑ समा॒नानां॑ स॒पत्ना॑नां विषास॒हिम् ।
ह॒न्तारं॒ शत्रू॑णां कृधि वि॒राजं॒ गोप॑तिं॒ गवा॑म् ॥१
ऋ॒ष॒भम् । मा॒ । स॒मा॒नाना॑म् । स॒ऽपत्ना॑नाम् । वि॒ऽस॒स॒हिम् ।
ह॒न्तार॑म् । शत्रू॑णाम् । कृ॒धि॒ । वि॒ऽराज॑म् । गोऽप॑तिम् । गवा॑म् ॥१
ऋषभम् । मा । समानानाम् । सऽपत्नानाम् । विऽससहिम् ।
हन्तारम् । शत्रूणाम् । कृधि । विऽराजम् । गोऽपतिम् । गवाम् ॥१
हे सपत्ननाशनाभिमानिन्निन्द्र "मा मां "समानानां सदृशानामस्मत्कुलीनानां मध्ये “ऋषभम् ऋषभवत्प्रशस्तं "कृधि कुरु। तथा “स पत्नानां शत्रूणां विषासहिं विशेषेणाभिभवितारं कुरु। येऽस्मत्कुल एव जाता अस्माकमेवानिष्टमाचरन्ति ते सपत्नाः । अपि च "शत्रूणाम् अन्येषामपि शातयितॄणां वैरिणां हन्तारं हिंसितारं "कृधि कुरु । तथा "विराजं विशेषेण राजमानं “गोपतिं गोस्वामिनं च मां कुरु । न केवलमेकस्या एव गोः पतिम् अपि तु सर्वासामित्याह “गवाम् इति ॥
अ॒हम॑स्मि सपत्न॒हेन्द्र॑ इ॒वारि॑ष्टो॒ अक्ष॑तः ।
अ॒धः स॒पत्ना॑ मे प॒दोरि॒मे सर्वे॑ अ॒भिष्ठि॑ताः ॥२
अ॒हम् । अ॒स्मि॒ । स॒प॒त्न॒ऽहा । इन्द्रः॑ऽइव । अरि॑ष्टः । अक्ष॑तः ।
अ॒धः । स॒ऽपत्नाः॑ । मे॒ । प॒दोः । इ॒मे । सर्वे॑ । अ॒भिऽस्थि॑ताः ॥२
अहम् । अस्मि । सपत्नऽहा । इन्द्रःऽइव । अरिष्टः । अक्षतः ।
अधः । सऽपत्नाः । मे । पदोः । इमे । सर्वे । अभिऽस्थिताः ॥२
"अहं "सपत्नहा सपत्नानां शत्रूणां हन्ता "अस्मि भवामि। “इन्द्रइव इन्द्रो यथा केनाप्यहिंसितो भवति तथाहमपि "अरिष्टः अहिंसितः "अक्षतः अव्रणश्च भवामि । "इमे दृश्यमानाः "सर्वे “सपत्नाः "मे मम “पदोः पादयोः "अधः अधस्तात "अभिष्ठिताः आक्रान्ता भवन्तु ॥
अत्रै॒व वोऽपि॑ नह्याम्यु॒भे आर्त्नी॑ इव॒ ज्यया॑ ।
वाच॑स्पते॒ नि षे॑धे॒मान्यथा॒ मदध॑रं॒ वदा॑न् ॥३
अत्र॑ । ए॒व । वः॒ । अपि॑ । न॒ह्या॒मि॒ । उ॒भे इति॑ । आर्त्नी॑ इ॒वेत्यार्त्नी॑ऽइव । ज्यया॑ ।
वाचः॑ । प॒ते॒ । नि । से॒ध॒ । इ॒मान् । यथा॑ । मत् । अध॑रम् । वदा॑न् ॥३
अत्र । एव । वः । अपि । नह्यामि । उभे इति । आर्त्नी इवेत्यार्त्नीऽइव । ज्यया ।
वाचः । पते । नि । सेध । इमान् । यथा । मत् । अधरम् । वदान् ॥३
हे सपत्ना यत्र देशे यूयं निवसथ "अत्रैव अस्मिन्नेव देशे “वः युष्मान् "अपि “नह्यामि अपिनद्धान् पाशैर्बद्धान् करोमि "ज्यया मौर्व्या उभे आर्त्नीइव । यथा द्वे धनुषः कोटी दृढं बध्येते तथेत्यर्थः । हे “वाचस्पते वाचः शब्दस्य पालयितर्देव “इमान् सपत्नान् "नि “षेध प्रतिषेध। "यथा येन प्रकारेण "मत् मत्तः "अधरं निकृष्टतरं "वदान् वदन्ति तथा निरुद्धवाचः कुर्वित्यर्थः ॥
अ॒भि॒भूर॒हमाग॑मं वि॒श्वक॑र्मेण॒ धाम्ना॑ ।
आ व॑श्चि॒त्तमा वो॑ व्र॒तमा वो॒ऽहं समि॑तिं ददे ॥४
अ॒भि॒ऽभूः । अ॒हम् । आ । अ॒ग॒म॒म् । वि॒श्वऽक॑र्मेण । धाम्ना॑ ।
आ । वः॒ । चि॒त्तम् । आ । वः॒ । व्र॒तम् । आ । वः॒ । अ॒हम् । सम्ऽइ॑तिम् । द॒दे॒ ॥४
अभिऽभूः । अहम् । आ । अगमम् । विश्वऽकर्मेण । धाम्ना ।
आ । वः । चित्तम् । आ । वः । व्रतम् । आ । वः । अहम् । सम्ऽइतिम् । ददे ॥४
हे सपत्नाः "अभिभूः अभिभविता "अहं "विश्वकर्मेण सर्वकर्मक्षमेण “धाम्ना धारकेण तेजसा बलेन वा सार्धम् "आगमम् आगतवानस्मि । अतः "वः युष्माकं "चित्तं मनः “आ “ददे गृह्णामि । मनोगतं धैर्यं हरामीत्यर्थः। “वः युष्माकं “व्रतं कर्म चाहम् "आ ददे। “वः युष्मदीयः यः समितिः संग्रामः तं च "अहम् "आ ददे अपहरामि ॥
यो॒ग॒क्षे॒मं व॑ आ॒दाया॒हं भू॑यासमुत्त॒म आ वो॑ मू॒र्धान॑मक्रमीम् ।
अ॒ध॒स्प॒दान्म॒ उद्व॑दत म॒ण्डूका॑ इवोद॒कान्म॒ण्डूका॑ उद॒कादि॑व ॥५
यो॒ग॒ऽक्षे॒मम् । वः॒ । आ॒ऽदाय॑ । अ॒हम् । भू॒या॒स॒म् । उ॒त्ऽत॒मः । आ । वः॒ । मू॒र्धान॑म् । अ॒क्र॒मी॒म् ।
अ॒धः॒ऽप॒दात् । मे॒ । उत् । व॒द॒त॒ । म॒ण्डूकाः॑ऽइव । उ॒द॒कात् । म॒ण्डूकाः॑ । उ॒द॒कात्ऽइ॑व ॥५
योगऽक्षेमम् । वः । आऽदाय । अहम् । भूयासम् । उत्ऽतमः । आ । वः । मूर्धानम् । अक्रमीम् ।
अधःऽपदात् । मे । उत् । वदत । मण्डूकाःऽइव । उदकात् । मण्डूकाः । उदकात्ऽइव ॥५
हे सपत्नाः "वः युष्माकं "योगक्षेमम् । अप्राप्तस्य धनस्य प्राप्तिर्योगः । प्राप्तस्य रक्षणं क्षेमः । तदुभयम् "आदाय युष्मत्तो गृहीत्वा "अहम् “उत्तमः श्रेष्ठ�� "भूयासम् । ततः "वः युष्माकं "मूर्धानं शिरः “आ “अक्रमीम् आक्रमिषम् । पादेनाधितिष्ठामि ॥ क्रमेर्लुङि अमो मश् (पा. सू. ७.१.४०)। ‘ इट ईटि ' (पा. सू. ८. २. २८) इति सिचो लोपः ।। अनन्तरं “मे मम “अधस्पदात् पादस्याधस्ताद्वर्तमाना यूयम् "उद्वदत उच्चैराक्रोशत। “उदकात् वृष्टाज्जलादधःप्रदेशे वर्तमानाः "मण्डूकाइव । यथा ते भृशमाक्रोशन्ति तथोद्वदतेत्यर्थः । “मण्डूका “उदकादिव इति पुनरुक्तिरादरार्था ॥ ॥२४॥
टिप्पणी
१०.१६६.२ अहमस्मि सपत्नहा इति
द्र. स्कन्दपुराणम् ३.३.१०
अयं संभवमस्ति यत् प्रस्तुत सूक्तस्य ये ऋषभसंज्ञका ऋषयः सन्ति, तेषां जननं पृष्ठ्यषडहस्य षड्भिः अहभिः भवति एवं षड्भ्यां ऋषभाणां यः एकीकृतरूपः अस्ति, तस्य वर्णनं प्रस्तुतसूक्ते अस्ति। ताण्ड्यब्राह्मणे १९.१२ एवं आर्षेयकल्पे (अध्यायः ५, पृ. २७१) ऋषभसंज्ञकस्य एकाहयागस्य निर्देशाः सन्ति। अयं यागः ऋषभस्य एकलरूपेण सह सम्बद्धः अस्ति, अयं प्रतीयते। ऋषिरूपेण यः ऋषभः वैराजः उल्लिखितमस्ति, अस्मिन् संदर्भे वैरूप-वैराजस्य भेदं उल्लेखनीयमस्ति। बलेः यागे यदा वामनः विराड्रूपं धारयति, अयं वैरूप-वैराजस्य एकं उदाहरणम्। भागवतपुराणस्य चतुर्थस्कन्धे यदा वेनस्य देहतः पृथोः आविर्भावं भवति, अयं द्वितीयं उदाहरणम्।
मण्डल १० | ||||
---|---|---|---|---|