सर्पगन्धः
![](http://178.128.105.246/cars-http-upload.wikimedia.org/wikipedia/commons/thumb/9/9f/Rauwolfia_serpentina%28Flower%29.jpg/220px-Rauwolfia_serpentina%28Flower%29.jpg)
![](http://178.128.105.246/cars-http-upload.wikimedia.org/wikipedia/commons/thumb/d/da/Rauwolfia_serpentina_at_talkatora_gardens_delhi.jpg/200px-Rauwolfia_serpentina_at_talkatora_gardens_delhi.jpg)
परिचयः[सम्पादयतु]
सर्पगन्धा काचित् औषधिः। एतत् गुल्मसस्यम् अस्ति । निबिडहरिद्वर्णेन चकासन्ते अस्य पत्राणि । पुष्पाणि रक्तश्वेतवर्णमिश्रितानि भवन्ति । अयं गुल्मः विश्वे सर्वत्र काननेशु प्ररोहति । अरण्येषु महावृक्षाणां छायासु सर्पगन्धा रोहति । भारते हिमालयश्रेणिषु अधिकं दृश्यते ।
सस्यशास्त्रीयं वर्गीकरणम्[सम्पादयतु]
सर्पगन्धा एपोसाइनेसी (Apocynaceae) कुटुम्बे योजिता अस्ति । अस्य सस्यशास्त्रीयं नाम रौवोल्पिया सर्पेण्टिना (Rauwolfia Serpentina) इति । आङ्ग्लभाषया snake root इति वदन्ति । बहुवर्षीयः गुल्मः सपुष्पकः महत्वपूर्णम् औषधीयं सस्यम् । अस्य ��्रधानमूलं २०से.मी. पर्यन्तं लम्बं वर्धते । मूले विशाखाः न भवन्ति । सर्पगन्धायाः पत्राणि सरलानि लघूनि च भवन्ति ।
प्रयोजनानि[सम्पादयतु]
सर्पगन्धासस्यस्य मूले रिसर्पिन् (reserpine) इति सस्यक्षारः अस्ति । आयुर्वेदचिकित्साक्रमे अस्य उपयोगः अधिकः । विशेषतः सर्पदशनस्य औषधरुपेण उपयुज्यते ।